रेकिचिकित्सा
रेकिचिकित्सा (Reiki) पर्यायचिकित्सासु अन्यतमा । एषा एका आध्यात्माभ्यासविशेषः । एनां चिकित्सां १९२२ तमे संवत्सरे जपान्-देशस्य बौद्धधर्मस्य ’मिकावो उसायि’ नामकः प्रसिद्धिपथे आनीतवान् । ’पाम् हीलिङ्ग्’ इति अस्याः चिकित्सायाः पर्यायवाचकम् । एतत् विधानं पूरकचिकित्सारूपेण, पर्यायचिकित्सारूपेण वा उपयुज्यते । केचन वृत्तिपराः एताम् पौरस्त्यचिकित्सा इत्यपि निर्दिशन्ति । अनेन विधानेन वैद्याः ’खि’संज्ञया निर्दिश्यमाणां गुणयुक्तां शक्तिं करतलाभ्यां रोगयुक्तस्य शरीरं प्रति सम्प्रसारयन्ति । अस्याः चिकित्सायाः जपनीस् रेकि पाश्चिमात्यरेकि इति च द्वे विभागे भवतः । पाश्चिमात्यरेकिचिकित्सायां त्रयः शिक्षणस्तराः सन्ति । प्रथमः, द्वितीयः, तज्ज्ञः उत शिक्षकस्तरः च त्रयः स्तराः सन्ति । प्रथमस्तरे रेकि विषये ज्ञास्यन्ति । स्वस्य अन्येषां च रोगादिवारणे समर्थाः भवन्ति । द्वितीयस्तरे, वैद्याः विशिष्टान् सङ्केतान् उपयुज्य दूरादेव दोषान् वारयितुं समर्थाः भवन्ति । शिक्षकस्तरे रेकिचिकित्साम् अन्येभ्यः बोधयितुं समर्थाः भवन्ति ।
इतिहासः
[सम्पादयतु]’रेकि’ इत्यस्य पदस्य जपानिभाषायां “निगूढवातावरणम् उत निगूढभावना” इत्यर्थः । रेकि इत्यस्य पदस्य चीनभाषायां ’लिङ्ग्कि’ इत्यर्थः । लिङ्ग्कि इत्यस्य पदस्य आध्यात्मिकवातावरणम् उत बुद्धिमत्ता इत्यर्थः । आध्यात्मिकजीवनशक्तिः उत जीवाधारका आध्यात्मिकशक्तिः सहजतया जीविषु भवति । टिबेटियन् बौद्धधर्मस्य आधारितां चिकित्सां जपान्-देशे १९ शतमाने डा 'मिकावो उसायि' अरब्धवान् । ओ इ डि(OED) पट्टिकानुसारं १९७५ तमे संवत्सरे रेकि पदप्रयोगः कृतः इति ज्ञायते । केचन आङ्ग्ललेखकाः रेकिचिकित्सां 'सार्वत्रिकजीवनाधारशक्तिः' इत्येव लिखन्ति । रेकिचिकित्साशिबिरं मिकावो '१९२२' तमे संवत्सरे मौण्ट् कुरामप्रदेशे आयोजितवान् आसीत् । एतस्मिन् शिबिरे रेकिसम्बद्धाः विषयाः सम्बोधिताः आसन् । मिकावो टोकियोदेशे “रेकि रयोहो गक्कै” नामक संस्थां स्थापितवान् । एषा संस्था रेकिचिकित्सां वर्धयन्ती, जनसेवां कुर्वती आसीत् । मिकावो द्विसहस्राधिकेभ्यः (२०००) जनेभ्यः पाटितवान् इति तस्य स्मारकाभिलेखे लिखितम् अस्ति । मिकावो १९२६ तमे संवत्सरे मार्चमासस्य ९ दिनाङ्के मृतवान् । अस्य मरणस्य अनन्तरं अस्यैव शिष्यः ’जे उषिड्’ सस्थायाः अध्यक्षरूपेण नियुक्तः ।
पञ्चसूत्राणि
[सम्पादयतु]मिकोवा 'चक्रवर्ति मेयिजिवर्यस्य' साहित्यककृतीणां अभिमानि आसीत् । एनां चिकित्सां प्रसिद्धिपथे आनेतुं मेयिजिवर्यस्य ग्रन्थेभ्यः नीतिसूत्राणि चित्वा “पञ्चसूत्राणि” इति ग्रन्थं लिखितवान् । पञ्चदेवाज्ञाः इत्येव प्रसिद्धिरस्य । रेकिचिकित्सायाः बोधकाः वैद्याः च पञ्चसूत्राणाम् परिपालनरताः भवेयुः ।
काञ्जि 招福の秘法, 今日丈けは:
朝夕合掌して心に念じ, 心身改善. 肇祖, |
रोमाजि शोफुको नो हिहो,
असायु गाषो शिते कोकोरो नि नेञ्जि, |
संस्कृतम्
सन्तोषम् आह्वातुम् विद्यमाना गुप्तकला
प्रत्यहं प्रातः सायञ्च नमस्कारं कृत्वा ध्यानं प्रर्थनाञ्च करोतु । |
रेकिसम्प्रदायः[सम्पादयतु]अद्यत्वे रेकिचिकित्सायां नैकाः शाखाः उपलभ्यन्ते । अस्याः प्रसिद्धे द्वे शाखे वर्तेते । जपनीस् रेकिचिकित्सा एका, अपरा पास्चिमात्यरेकिचिकित्सा । जपनीस् रेकिचिकित्सा[सम्पादयतु]’मिकोवावर्यस्य’ मूलबोधनानुसारेण जन्यां पद्धतिं निरूपयितुं साम्प्रदायिकां जपनीस् रेकिचिकित्साम् अनुसरन्ति । बोधनानि जपान् देशाय सीमितानि सन्ति । १९९० तमे संवत्सरे पाश्चिमात्यबोधकाः एनं निर्दिष्टं सम्प्रदायम् अध्येतुं समायाताः, किन्तु निष्फलाः सञ्जाताः बोधकाः । समनन्तरं शालाम् आरब्धवन्तः । तत्रत्येभ्यः जनेभ्यः रेकिचिकित्सां बोधितवन्तः । अस्याः प्रमुखाः शाखाः अधोनिर्दिष्टाः सन्ति । रयोहो गक्कै[सम्पादयतु]एषा साम्प्रदायिकरेकिचिकित्सायाः प्रसिद्धा मिकोवा स्थापिताच संस्था भवति । अस्याः संस्थायाः सम्प्रदायः अद्यापि अस्ति । एषा संस्था गुप्तज्ञानयुक्ता अस्ति । एतासु संस्थासु प्रवेशप्राप्तिः कठिना अस्ति । रेयिडो रेकि गक्कै[सम्पादयतु]एषा रयोहो गक्कै सस्थायाः तज्ज्ञैः (जन्या) शोधिता पद्धतिः । एनां पद्धतिं पुमिनोरि अवोकि स्वाध्यक्षे चालितवान् । एषः विनूतनान् अंशान् योजितवान् । अस्यां पद्धतौ ’कोरिकि’ (सन्तोषस्य शक्तिः) सङ्केतानाम् उपयोगं कुर्वन्ति । कोव्यो रेकि कै[सम्पादयतु]जपनीस् साम्प्रदायिकशालायाः नाम एव अस्याः पद्धत्याः नाम स्थापितवन्तः । एनां पाश्चिमात्यरेकिचिकित्सायाः शिक्षकः ह्याकुटेन् इनोमोटो स्थापितवान् । ’गक्कै’ अजन्या इत्यतः अन्यासाम् अपेक्षया पद्धतौ भेदः अस्ति । जिकिडेन् रेकिचिकित्सा[सम्पादयतु]जिकिडेन् रेकिचिकित्सा एका प्रसिद्धा पद्धतिः । डा. हुयाशिद्वारा बोधिता पद्धतिः । अस्याः संस्थापकौ श्रीमती यमगुचि, अस्याः पुत्रः तदावो यमगुचि च । पाश्चिमात्यरेकिचिकित्सायाः हस्तमुद्राणाम् अपेक्षया अस्यां पद्धतौ व्यापकतया हस्तमुद्राणाम् उपयोगं कुर्वन्ति । पाश्चिमात्यरेकिचिकित्सा[सम्पादयतु]पाश्चिमात्यरेकिचिकित्सां पद्धतिं हवायो तकातर पद्धतिः इति भावयितुं शक्यते । अस्यां पद्धतौ ’रेयिजे’ धूमस्य उपयोगं न कुर्वन्ति । किन्तु, हस्तमुद्रायाः उपयोगम् अधिकतया कुर्वन्ति । एषा पद्धतिः अस्वस्थतायाः विषये अवगाहनं दत्ता अस्ति । अस्यां पद्धतौ उन्नतस्थरस्य अनुष्ठानानि उपयुक्तानि सन्ति । हयाशिवर्यात् रेकिचिकित्सां पद्धतिं ज्ञात्वा हवायिदेशं गतवान् । तस्मिन् देशे वैद्यालयाः स्थापिताः । अनेन कारणेनैव पाश्चिमात्येषु देशेषु प्रसिद्धिं प्राप्नोत् । उसोयि रेकि शिकि रयोहो[सम्पादयतु]पाश्चिमात्यरेकिपद्धतौ अन्यतमा उसोयि रेकि शिकि रयोहो भवति । ’हवायो तकातर’ पद्धतेः उसोयि रेकि शिकि रयोहो पद्धतेः च मूलसिद्धान्तेषु साम्यता दृश्यन्ते । उसुयि/टिबेटियन्-रेकिचिकित्सा[सम्पादयतु]आर्थर् राबर्ट्सन् उसुयि/टिबेटियन्-रेकिचिकित्सायाः अभिवृद्धिं कृतवान् । ’विलियं ली राण्ड् हागि डियाने स्टेयिन्’ अस्याः चिकित्सापद्धत्याः प्रसिद्धिपथे आनेतुं कारणीभूतः असीत् । एषा पद्धतिः उसायिपद्धत्या जनिता अस्ति । ’रयोहो गक्कैन्’- पद्धत्याः विधानानि अस्यां सन्ति । एषा चिकित्सापद्धतिः चत्वरिस्तरेषु विभक्ता । गेण्डै रेकि हो[सम्पादयतु]’गेण्डै रेकि हो’ पद्धतौ जपनीस्-पाश्चिमात्ययोः आंशाः सन्ति । अस्याः चिकित्सायाः संस्थापकः ’हिरोषि दोयि’ भवति । हिरोषि मियेको मित्सुयिमार्गदर्शने पाश्चिमात्य शैलीं ज्ञातवान् । रेकिचिकित्सायाः त्रयो आधाराः[सम्पादयतु]उसायि रेकिचिकित्सायाः आधारत्रयम् निरूपितवान् अस्ति । ते अधाराः भवन्ति-
गाषो[सम्पादयतु]गाषो एका ध्यानस्था स्थितिः । अस्यां पद्धतौ करतलयोः संयोगः क्रियते । करतलयोः मध्यामाङ्गुल्योः संलग्ने भागे मनः केन्द्रीकुर्वन्ति । रेयिजि हो[सम्पादयतु]रेयिजो हो नाम वैद्यस्य साहाय्येन त्रिवारं शक्तिसम्प्रेषणाय क्रियमाणा प्रार्थना । रेयिजो हो भागत्रये विभक्तः अस्ति । प्रथमभागे, रेकिशक्तिं वैद्यद्वारा सम्प्रेषणार्थं क्रियमाणा प्रार्थना भवति । एनां शक्तिं मुकुटचक्र, अनाहतचक्र, उत हस्ताभ्यां सम्प्रेषयन्ति । द्वितीय(स्तरे)विभागे, रोगिः निर्दिष्टरोगात् गुणमुखः भवतु इति प्रार्थना क्रियते । स्वस्थश्चेत् उत्तम आरोग्यार्थं प्रार्थना क्रियते । तृतीये भागे, करतलौ भ्रूमध्ये स्थापयतः। एवं शक्तेः अपेक्षा कस्मिन् भागे वर्तते तत्र सम्प्रेषणार्थं प्रार्थयन्ति । चिर्यो[सम्पादयतु]जपान्-भाषायां चिर्यो नाम चिकित्सा इत्यर्थः । वैद्यः हस्ताभ्यां मुकुटचक्रेण शक्तिं सम्प्रेषयन्ति । एषा शक्तिः अन्तःप्रेरिका प्रचोदनस्वरूपा च अस्ति । बाह्यानुबन्धः[सम्पादयतु]
|